(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Aadiparv (Mahabharat) - आदिपर्व (महाभारत)


॥ श्रीः ॥
1.178. अध्यायः 178
Mahabharata - Adi Parva - Chapter Topics
बकवधानन्तरं समागतानां तत्परिवाराणां भीमेन समयकरणम्॥ 1 ॥ नगरद्वारदेशे बकशरीरं निधाय ब्राह्मणगृहमा गत्य भीमेन कुन्त्यादीन्प्रति बकवृत्तान्तकथनम्॥ 2 ॥ मृतबकदर्शार्थं पौराणां गमनम्॥ 3 ॥ ब्रह्ममहोत्सवकरणम्॥ 4 ॥ बकवधेन पौराणां भीमसेवनम्॥ 5 ॥
Mahabharata - Adi Parva - Chapter Text

वैशम्पायन उवाच। 1-178-0x(1026)(8074)
ततः स भग्नपार्श्वाङ्गो नदित्वा भैरवं रवम्।
शैलराजप्रतीकाशो गतासुरभवद्बकः॥ 1-178-1(8075)
तेन शब्देन वित्रस्तो जनस्तस्याथ रक्षसः।
निष्पपात गृहाद्राजन्सहैव परिचारिभिः॥ 1-178-2(8076)
`बकानुजस्तदा राजन्भीमं शरणमेयिवान्।
ततस्तु निहतं दृष्ट्वा राक्षसेन्द्रं महाबलम्।
राक्षसाः परमत्रस्ता भीमं शऱणमाययुः॥' 1-178-3(8077)
तान्भीतान्विगतज्ञानान्भीमः प्रहरतां वरः।
सांत्वयामास बलवान्समये च न्यवेशयत्॥ 1-178-4(8078)
न हिंस्या मानुषा भूयो युष्माभिरिति कर्हिचित्।
हिंसतां हि वधः शीघ्रमेवमेव भवेदिति॥ 1-178-5(8079)
तस्य तद्वचनं श्रुत्वा तानि रक्षांसि भारत।
एवमस्त्विति तं प्राहुर्जगृहुः समयं च तम्॥ 1-178-6(8080)
`सगणस्तु बकभ्राता प्राणमत्पाण्डवं तदा।'
ततः प्रभृति रक्षांसि तत्र सौम्यानि भारत।
नगरे प्रत्यदृश्यन्त नरैर्नगरवासिभिः॥ 1-178-7(8081)
ततो भीमस्तमादाय गतासुं पुरुषादकम्।
`निष्कर्णनेत्रं निर्जिह्वं निःसंज्ञं कण्ठपीडनात्।
कुर्वन्बहुविधां चेष्टां पुरद्वारमकर्षत॥ 1-178-8(8082)
द्वारदेशे विनिक्षिप्य पुरमागात्स मारुतिः।
स एव राक्षसो नूनं पुनरायाति नः पुरीम्॥ 1-178-9(8083)
सबालवृद्धाः पुरुषा इति भीताः प्रदुद्रुवुः।
ततो भीमो बकं हत्वा गत्वा ब्राह्मणवेश्म तत्॥ 1-178-10(8084)
बलीवर्दौ च शकटं ब्राह्मणाय न्यवेदयत्।
तूष्णीमन्तर्गृहं गच्छेत्यभिधाय द्विजोत्तमम्॥ 1-178-11(8085)
मातृभ्रातृसमक्षं च गत्वा शयनमेव च।
आचचक्षेऽथ तत्सर्वं रात्रौ युद्धमभूद्यथा॥' 1-178-12(8086)
ततो नरा विनिष्क्रान्ता नगरात्कल्यमेव तु।
ददृशुर्निहतं भूमौ राक्षसं रुधिरोक्षितम्॥ 1-178-13(8087)
तमद्रिकूटसदृशं विनिकीर्णं भयानकम्।
दृष्ट्वा संहृष्टरोमाणो बभूवुस्तत्र नागराः॥ 1-178-14(8088)
एकचक्रां ततो गत्वा प्रवृत्तिं प्रददुः पुरे।
ततः सहस्रशो राजन्नरा नगरवासिनः॥ 1-178-15(8089)
तत्राजग्मुर्बकं द्रष्टुं सस्त्रीवृद्धकुमारकाः।
ततस्ते विस्मिताः सर्वे कर्म दृष्ट्वाऽतिमानुषम्।
दैवतान्यर्चयाञ्चक्रुः प्रार्थितानि पुरा भयात्॥ 1-178-16(8090)
ततः प्रगणयामासुः कस्य वारोऽद्य भोजने।
ज्ञात्वा चागम्य तं विप्रं पप्रच्छुः सर्व एव ते॥ 1-178-17(8091)
एवं पृष्टः स बहुशो रक्षमाणश्च पाण्डवान्।
उवाच नागरान्सर्वानिदं विप्रर्षभस्तदा॥ 1-178-18(8092)
ब्राह्मण उवाच। 1-179-19x(1027)
आज्ञापितं मामशने रुदन्तं सह बन्धुभिः।
ददर्श ब्राह्मणः कश्चिन्मन्त्रसिद्धो महामनाः॥ 1-178-19(8093)
परिपृच्छ्य स मां पूर्वं परिक्लेशं पुरस्य च।
अब्रवीद्ब्राह्मणश्रेष्ठो विश्वास्य प्रहसन्निव॥ 1-178-20(8094)
प्रापयिष्याम्यहं तस्मा अन्नमेतद्दुरात्मने।
मन्निमित्तं भयं चापि न कार्यमिति चाब्रवीत्॥ 1-178-21(8095)
स तदन्नमुपादाय गतो बकवनं प्रति।
तेन नूनं भवेदेतत्कर्म लोकहितं कृतम्॥ 1-178-22(8096)
ततस्ते ब्राह्मणाः सर्वे क्षत्रियाश्च सुविस्मिताः।
वैश्याः शूद्राश्च मुदिताश्चक्रुर्ब्रह्ममहं तदा॥ 1-178-23(8097)
ततो जानपदाः सर्वे आजग्मुर्नगरं प्रति।
तमद्भुततमं द्रष्टुं पार्थास्तत्रैव चावसन्॥ 1-178-24(8098)
वेत्रकीयगृहे सर्वे परिवार्य वृकोदरम्।
विस्मयादभ्यगच्छन्त भीमं भीमपराक्रमम्॥ 1-178-25(8099)
न वै न संभवेत्सर्वं ब्राह्मणेषु महात्मसु।
इति सत्कृत्य तं पौराः परिवव्रुः समन्ततः॥ 1-178-26(8100)
अयं त्राता हि खेदानां पितेव परमार्थतः।
अस्य शुश्रूषवः पादौ परिचर्य उपास्महे॥ 1-178-27(8101)
पशुमद्दधिमनच्चास्य वारं भक्तमुपाहरन्।
तस्मिन्हते ते पुरुषा भीताः समनुबोधनाः॥ 1-178-28(8102)
ततः संप्राद्रवन्पार्थाः सह मात्रा परन्तपाः।
आगच्छन्नेकचक्रां ते गाण्डवाः संशितव्रताः॥ 1-178-29(8103)
वैदिकाध्ययने युक्ता जटिला ब्रह्मचारिणः।
अवसंस्ते च तत्रापि ब्राह्मणस्य निवेशने।
मात्रर सहैकचक्रायां दीर्घकालं सहोषिताः॥ ॥ 1-178-30(8104)

इति श्रीमन्महाभारते आदिपर्वणि बकवधपर्वणि अष्टसप्तत्यधिकशततमोऽध्यायः॥ 178 ॥ ॥ समाप्तं च बकवधपर्व ॥

Mahabharata - Adi Parva - Chapter Footnotes
1-178-13 कल्यं प्रातःकाले॥ 1-178-19 आज्ञापितं राजकीयैरिति शेषः। अशने राक्षसस्य भोजनार्थम्॥ अष्टसप्तत्यधिकशततमोऽध्यायः॥ 178 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.